|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.35. अध्यायः 035
Mahabharata - Adi Parva - Chapter Topics
सर्पनामकथनम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
शौनक उवाच। 1-35-0x(161)(1663)
भुजङ्गमानां शापस्य मात्रा चैव सुतेन च।
विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन॥ 1-35-1(1664)
वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा।
नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः॥ 1-35-2(1665)
पन्नगानां तु नामानि न कीतर्यसि सूतज।
प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम्॥ 1-35-3(1666)
सौतिरुवाच। 1-35-4x(162)
बहुत्वान्नामधेयानि पन्नगानां तपोधन।
न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु॥ 1-35-4(1667)
शेषः प्रथमतो जातो वासुकिस्तदनन्तरम्।
ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ॥ 1-35-5(1668)
कालियो मणिनागश्च नागश्चापूरणस्तथा।
नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः॥ 1-35-6(1669)
नीलानीलौ तथा नागौ कल्माषशबलौ तथा।
आर्यकश्चोग्रकश्चैव नागः कलशपोतकः॥ 1-35-7(1670)
सुमनाख्यो दधिमुखस्तथा विमलपिण्डकः।
आप्तः कोटरकश्चैव शङ्खो वालिशिखस्तथा॥ 1-35-8(1671)
निष्टानको हेमगुहो नहुषः पिङ्गलस्तथा।
बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः॥ 1-35-9(1672)
कम्बलाश्वतरौ चापि नागः कालीयकस्तथा।
वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ॥ 1-35-10(1673)
नागः शङ्खमुखश्चैव तथा कूष्माण्डकोऽपरः।
क्षेमकश्च तथा नागो नागः पिण्डारकस्तथा॥ 1-35-11(1674)
करवीरः पुष्पदंष्ट्रो बिल्वको बिल्वपाण्डुरः।
मूषकादः शङ्खशिराः पूर्णभद्रो हरिद्रकः॥ 1-35-12(1675)
अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा।
कौरव्यो धृतराष्ट्रश्च शङ्खपिण्डश्च वीर्यवान्॥ 1-35-13(1676)
विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान्।
हस्तिपिण्डः पिठरकः सुमुखः कौणपाशनः॥ 1-35-14(1677)
कुठऱः कुञ्जरश्चैव तथा नागः प्रभाकरः।
कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा॥ 1-35-15(1678)
कर्दमश्च महानागो नागश्च बहुमूलकः।
कर्कराकर्करौ नागौ कुण्डोदरमहोदरौ॥ 1-35-16(1679)
एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम।
बहुत्वान्नामधेयानामितरे नानुकीर्तिताः॥ 1-35-17(1680)
एतेषां प्रसवो यश्च प्रसवस्य च संततिः।
असङ्ख्येयेति मत्त्वा तान्न ब्रवीमि तपोधन॥ 1-35-18(1681)
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च।
अशक्यान्येव सङ्ख्यातुं पन्नगानां तपोधन॥ ॥ 1-35-19(1682)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चत्रिंशोऽध्यायः॥ 35 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-35-1 भुजङ्गमानां मात्रा शापो दत्तस्तस्य कारणं अवज्ञया मातुराज्ञाकारित्वं। विनतायाः सुतेन अरुणेन शापो दत्तस्तस्य कारणं सपत्नीर्ष्या॥ पञ्चत्रिंशोऽध्यायः॥ 35 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|